Ⅷ
Ⅰ कथ्यमानानां वाक्यानां सारोऽयम् अस्माकम् एतादृश एको महायाजकोऽस्ति यः स्वर्गे महामहिम्नः सिंहासनस्य दक्षिणपार्श्वो समुपविष्टवान्
Ⅱ यच्च दूष्यं न मनुजैः किन्त्वीश्वरेण स्थापितं तस्य सत्यदूष्यस्य पवित्रवस्तूनाञ्च सेवकः स भवति।
Ⅲ यत एकैको महायाजको नैवेद्यानां बलीनाञ्च दाने नियुज्यते, अतो हेतोरेतस्यापि किञ्चिद् उत्सर्जनीयं विद्यत इत्यावश्यकं।
Ⅳ किञ्च स यदि पृथिव्याम् अस्थास्यत् तर्हि याजको नाभविष्यत्, यतो ये व्यवस्थानुसारात् नैवेद्यानि ददत्येतादृशा याजका विद्यन्ते।
Ⅴ ते तु स्वर्गीयवस्तूनां दृष्टान्तेन छायया च सेवामनुतिष्ठन्ति यतो मूससि दूष्यं साधयितुम् उद्यते सतीश्वरस्तदेव तमादिष्टवान् फलतः स तमुक्तवान्, यथा, "अवधेहि गिरौ त्वां यद्यन्निदर्शनं दर्शितं तद्वत् सर्व्वाणि त्वया क्रियन्तां।"
Ⅵ किन्त्विदानीम् असौ तस्मात् श्रेष्ठं सेवकपदं प्राप्तवान् यतः स श्रेष्ठप्रतिज्ञाभिः स्थापितस्य श्रेष्ठनियमस्य मध्यस्थोऽभवत्।
Ⅶ स प्रथमो नियमो यदि निर्द्दोषोऽभविष्यत तर्हि द्वितीयस्य नियमस्य किमपि प्रयोजनं नाभविष्यत्।
Ⅷ किन्तु स दोषमारोपयन् तेभ्यः कथयति, यथा, "परमेश्वर इदं भाषते पश्य यस्मिन् समयेऽहम् इस्रायेलवंशेन यिहूदावंशेन च सार्द्धम् एकं नवीनं नियमं स्थिरीकरिष्याम्येतादृशः समय आयाति।
Ⅸ परमेश्वरोऽपरमपि कथयति तेषां पूर्व्वपुरुषाणां मिसरदेशाद् आनयनार्थं यस्मिन् दिनेऽहं तेषां करं धृत्वा तैः सह नियमं स्थिरीकृतवान् तद्दिनस्य नियमानुसारेण नहि यतस्तै र्मम नियमे लङ्घितेऽहं तान् प्रति चिन्तां नाकरवं।
Ⅹ किन्तु परमेश्वरः कथयति तद्दिनात् परमहं इस्रायेलवंशीयैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामि, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां हृत्पत्रे च तान् लेखिष्यामि, अपरमहं तेषाम् ईश्वरो भविष्यामि ते च मम लोका भविष्यन्ति।
Ⅺ अपरं त्वं परमेश्वरं जानीहीतिवाक्येन तेषामेकैको जनः स्वं स्वं समीपवासिनं भ्रातरञ्च पुन र्न शिक्षयिष्यति यत आक्षुद्रात् महान्तं यावत् सर्व्वे मां ज्ञास्यन्ति।
Ⅻ यतो हेतोरहं तेषाम् अधर्म्मान् क्षमिष्ये तेषां पापान्यपराधांश्च पुनः कदापि न स्मरिष्यामि।"
ⅩⅢ अनेन तं नियमं नूतनं गदित्वा स प्रथमं नियमं पुरातनीकृतवान्; यच्च पुरातनं जीर्णाञ्च जातं तस्य लोपो निकटो ऽभवत्।